#Naishadhiyam #Sriharsha #Panchamahakavya
• Naishadham - Canto 1
• Naishadham - Canto 2
Naiṣhadhīyacaritam is one of the five great poems of Samskrita Literature – the पञ्च-महाकाव्यs. Sriharsha is the author of this kāvya, which has 22 cantos.
नैषधीयचरिते पञ्चमः सर्गः
पाठः १ — श्लोकाः १ तः ४
यावदागमयतेऽथ नरेन्द्रान्स स्वयंवरमहाय महीन्द्रः ।
तावदेव ऋषिरिन्द्रदिदृक्षुर्नारदस्त्रिदशधाम जगाम ॥५.१॥
नात्र चित्रमनु तं प्रययौ यत्पर्वतः स खलु तस्य सपक्षः ।
नारदस्तु जगतो गुरुरुच्चैर्विस्मयाय गगनं विललङ्घे ॥५.२॥
गच्छता पथि विनैव विमानं व्योम तेन मुनिना विजगाहे ।
साधने हि नियमोऽन्यजनानां योगिनां तु तपसाखिलसिद्धिः ॥५.३॥
खण्डितेन्द्रभवनाद्यभिमानाल्लँङ्घते स्म मुनिरेष विमानान् ।
अर्थितोऽप्यतिथितामनुमेने नैव तत्पतिभिरङ्घ्रिविनम्रैः ॥५.४॥
(Explanation in Tamil by Visalakshi Sankaran)
コメント