ऋणहर्ता गणेश स्तोत्र | कुबेर के समान धन होगा, दरिद्रता का नाश होगा | Debt Remover Ganesha Stotram by Bhagwan Shiva | Balram Pandey Sanskrit | Sanskrit lyrics + Hindi Meaning
।। ऋणहर्ता गणेश स्तोत्रम् ।।
कैलासपर्वते रम्ये शम्भुं चन्द्रार्धशेखरम् ।
षडाम्नायसमायुक्तं पप्रच्छ नगकन्यका ॥
पार्वत्युवाच-
देवेश परमेशान सर्वशास्त्रार्थपारग ।
उपायमृणनाशस्य कृपया वद साम्प्रतम्॥
शिव उवाच-
सम्यक् पृष्टं त्वया भद्रे लोकानां हितकाम्यया ।
तत्सर्वं सम्प्रवक्ष्यामि सावधानावधारय ॥
विनियोगः-
ॐ अस्य श्रीऋणहरणकर्तृगणपतिस्तोत्रमन्त्रस्य सदाशिव ऋषिः, अनुष्टुप् छन्दः, श्रीऋणहरणकर्तृगणपतिर्देवता, ग्लौं बीजम्, गः शक्तिः, गों कीलकम्, मम सकलर्णनाशने पाठे विनियोगः ।
ऋष्यादिन्यासः-
ॐ सदाशिवर्षये नमः शिरसि। अनुष्टुप्छन्दसे नमः मुखे ।
श्रीऋणहर्तृगणेशदेवतायै नमः हृदि । ग्लौं बीजाय नमः गुह्ये ।
गः शक्तये नमः पादयोः । गों कीलकाय नमः सर्वाङ्गे ।
करन्यासः-
'ॐ गणेश' अङ्गुष्ठाभ्यां नमः । ' ऋणं छिन्धि' तर्जनीभ्यां नमः । 'वरेण्यम्' मध्यमाभ्यां नमः । 'हुम्' अनामिकाभ्यां नमः । 'नमः' कनिष्ठिकाभ्यां नमः । 'फट्' करतलकरपृष्ठाभ्यां नमः ।'
हृदयादिन्यासः-
'ॐ गणेश' हृदयाय नमः । ऋणं छिन्धि' शिरसे स्वाहा ।
'वरेण्यम्' शिखायै वषट्। 'हुम्' कवचाय हुम् । 'नमः' नेत्रत्रयाय वौषट् । 'फट्' अस्त्राय फट् ।
ध्यानम्-
सिन्दूरवर्णं द्विभुजं गणेशं लम्बोदरं पद्मदले निविष्टम् ।
ब्रह्मादिदेवैः परिसेव्यमानं सिद्धैर्युतं तं प्रणमामि देवम् ॥
सृष्ट्यादौ ब्रह्मणा सम्यक् पूजितः फलसिद्धये ।
सदैव पार्वतीपुत्र ऋणनाशं करोतु मे ॥ १॥
त्रिपुरस्य वधात् पूर्वं शम्भुना सम्यगर्चितः ।
सदैव पार्वतीपुत्र ऋणनाशं करोतु मे ॥ २ ॥
हिरण्यकश्यपादीनां वधार्थे विष्णुनार्चितः ।
सदैव पार्वतीपुत्र ऋणनाशं करोतु मे ॥ ३ ॥
महिषस्य वधे देव्या गणनाथः प्रपूजितः ।
सदैव पार्वतीपुत्र ऋणनाशं करोतु मे ॥ ४ ॥
तारकस्य वधात् पूर्वं कुमारेण प्रपूजितः ।
सदैव पार्वतीपुत्र ऋणनाशं करोतु मे ॥ ५ ॥
भास्करेण गणेशस्तु पूजितश्छविसिद्धये ।
सदैव पार्वतीपुत्र ऋणनाशं करोतु मे ॥ ६ ॥
शशिना कान्तिसिद्ध्यर्थं पूजितो गणनायकः ।
सदैव पार्वतीपुत्र ऋणनाशं करोतु मे ॥ ७ ॥
पालनाय च तपसा विश्वामित्रेण पूजितः ।
सदैव पार्वतीपुत्र ऋणनाशं करोतु मे ॥ ८ ॥
इदं त्वृणहरं स्तोत्रं तीव्रदारिद्र्यनाशनम् ।
एकवारं पठेन्नित्यं वर्षमेकं समाहितः ॥ ९ ॥
दारिद्र्यं दारुणं त्यक्त्वा कुबेरसमतां व्रजेत् ॥ १०
॥ श्रीकृष्णयामलतन्त्रे उमामहेश्वरसंवादे ऋणहर्ता गणेश स्तोत्रम् ॥
Join us:-
Telegram Group = t.me/BalramPandeySanskrit
Email- sanskritbalram@gmail.com
#ganpati #ganesh #sanatandharma #sanskrit #stotram #balrampandeysanskrit
コメント