#Naishadhiyam #Sriharsha #Panchamahakavya
• Naishadham - Canto 1
• Naishadham - Canto 2
Naiṣhadhīyacaritam is one of the five great poems of Samskrita Literature – the पञ्च-महाकाव्यs. Sriharsha is the author of this kāvya, which has 22 cantos.
नैषधीयचरिते पञ्चमः सर्गः
पाठः ९ — श्लोकाः ५५ तः ६०
अन्वयुर्द्युतिपयःपितृनाथास्तं मुदाथ हरितां कमितारः ।
वर्त्म कर्षतु पुरः परमेकस्तद्गतानुगतिको न महार्घः ॥५.५५॥
प्रेषिताः पृथगथो दमयन्त्यै चित्तचौर्यचतुरा निजदूत्यः ।
तद्गुरुं प्रति च तैरुपहाराः सख्यसौख्यकपटेन निगूढाः ॥५.५६॥
चित्रमत्र विबुधैरपि यत्तैः स्वर्विहाय बत भूरनुसस्रे ।
द्यौर्न काचिदथवास्ति निरूढा सैव सा चलति यत्र हि चित्तम् ॥५.५७॥
शीघ्रलङ्घितपथैरथ वाहैर्लम्भिता भुवममी सुरसाराः ।
वक्रितोन्नमितकन्धरबन्धाः शुश्रुवुर्ध्वनितमध्वनि दूरम् ॥५.५८॥
किं घनस्य जलधेरथवैवं नैव संशयितुमप्यलभन्त ।
स्यन्दनं परमदूरमपश्यन्निःस्वनश्रुतिसहोपनतं ते ॥५.५९॥
सूतविश्रमदकौतुकिभावं भावबोधचतुरं तुरगाणाम् ।
तत्र नेत्रजनुषः फलमेते नैषधं बुबुधिरे विबुधेन्द्राः ॥५.६०॥
(Explanation in Tamil by Visalakshi Sankaran)
コメント