श्री चन्द्रकवचम्
समं चतुर्भुजः वन्दे केयूरमुकुटोज्जवलम् ।
वासुदेवस्य नयनं शंकरस्य च भूषणम् ॥ १ ॥
एवं ध्यात्वा जपेन्नित्यं शशिनः कवचं शुभम् ।
शशी पातु शिरोदेशं भालं पातु कलानिधिः ॥ २ ॥
चक्षुषी चन्द्रमा पातु श्रुती पातु निशापतिः ।
प्राणं क्षपाकरः पातु मुखं कुमुदबान्धवः ॥ ३ ॥
पातु कण्ठं च मे सोमः स्कन्धौ जैवातृकस्तथा।
करौ सुधाकरः पातु वक्षः पातु निशाकरः ॥ ४ ॥
हृदयं पातु मे चन्द्रो नाभिं शङ्करभूषणः ।
मध्य पातु सुरश्रेष्ठः कटिं पातु सुधाकरः ॥ ५ ॥
उरू तारापतिः पातु मृगाङ्को जानुनी सदा।
अब्धिजः पातु मे जंघे पातु पादौ विधुः सदा ॥ ६ ॥
सर्वाण्यनानि चाङ्गानि पातु चन्द्रोऽखिलं वपु ।
एतद्धि कवचं दिव्य भुक्ति-मुक्ति प्रदायकम् ।
यः पठेच्छृणुयाद्वापि सर्वतविजयी भवेत् ॥ ७ ॥
॥ चन्द्रकवचं सम्पूर्णम् ॥
コメント