#Srimadbhagavatam #Sridhariyam #Krishna #bhavarthadipika #commentary #daksha #shiva #sati
Śrīmad-bhāgavatam along with the commentary Bhāvārthadīpikā of Sridhara Svami
चतुर्थः स्कन्धः — Session 17
चतुर्थाध्याये श्लोकाः २८ - ३६
पञ्चमाध्याये श्लोकाः १ - २
तत्पश्यतां खे भुवि चाद्भुतं महत् हा हेति वादः सुमहानजायत ।
हन्त प्रिया दैवतमस्य देवी जहावसून् केन सती प्रकोपिता ॥ २८॥
अहो अनात्म्यं महदस्य पश्यत प्रजापतेर्यस्य चराचरं प्रजाः ।
जहावसून् यद्विमताऽऽत्मजा सती मनस्विनी मानमभीक्ष्णमर्हति ॥ २९॥
सोऽयं दुर्मर्षहृदयो ब्रह्मध्रुक् च लोकेऽपकीर्तिं महतीमवाप्स्यति ।
यदङ्गजां स्वां पुरुषद्विडुद्यतां न प्रत्यषेधन्मृतयेऽपराधतः ॥ ३०॥
वदत्येवं जने सत्या दृष्ट्वासुत्यागमद्भुतम् ।
दक्षं तत्पार्षदा हन्तुमुदतिष्ठन्नुदायुधाः ॥ ३१॥
तेषामापततां वेगं निशाम्य भगवान् भृगुः ।
यज्ञघ्नघ्नेन यजुषा दक्षिणाग्नौ जुहाव ह ॥ ३२॥
अध्वर्युणा हूयमाने देवा उत्पेतुरोजसा ।
ऋभवो नाम तपसा सोमं प्राप्ताः सहस्रशः ॥ ३३॥
तैरलातायुधैः सर्वे प्रमथाः सह गुह्यकाः ।
हन्यमाना दिशो भेजुरुशद्भिर्ब्रह्मतेजसा ॥ ३४॥
॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे सतीदेहोत्सर्गो नाम चतुर्थोऽध्यायः ॥
॥ अथ पञ्चमोऽध्यायः ॥
मैत्रेय उवाच
भवो भवान्या निधनं प्रजापतेरसत्कृताया अवगम्य नारदात् ।
स्वपार्षदसैन्यं च तदध्वरर्भुभिर्विद्रावितं क्रोधमपारमादधे ॥ १॥
क्रुद्धः सुदष्टौष्ठपुटः स धूर्जटिर्जटां तडिद्वह्निसटोग्ररोचिषम् ।
उत्कृत्य रुद्रः सहसोत्थितो हसन् गम्भीरनादो विससर्ज तां भुवि ॥ २॥
Mahatmyam playlist
• Srimad-bhagavata-mahatmyam
Srimad bhagavatam with the commentary of Sridhara Swamin
Skandha 1 - • Srimad-bhagavatam Skandha 01
Skandha 2 - • Srimad-bhagavatam Skandha 02
Skandha 3 - • Srimad-bhagavatam Skandha 03
Skandha 4 - • Srimad-bhagavatam Skandha 04
(Explanation in Tamil by Smt Visalakshi Sankaran)
The text along with Sanskrit commentary by Sridharaswamin is available at
archive.org/details/bhagavatamshridhari
コメント