सङ्कटनाशन गणेश स्तोत्रम् (नारदपुराण) | इच्छित फल की प्राप्ति हेतु | Sankata Nashana Ganesha Stotram by Balram Pandey with pure Sanskrit lyrics 🚩🙏
जन्म कुंडली बनवाने और विश्लेषण-हस्तरेखा-वास्तुशास्त्र-यज्ञ-शांति-पाठ आदि किसी भी प्रकार की पूजा-पाठ करवाने और ज्योतिष संबंधी जानकारी प्राप्त करने के लिए हमसे संपर्क कर सकते हैं।
संपर्क सूत्र - 8445108265
॥ श्रीसङ्कटनाशनगणेशस्तोत्रम् ॥
नारद उवाच-
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्तावासं स्मरेन्नित्यमायुः कामार्थसिद्धये ॥ १ ॥
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥ २ ॥
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च।
सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टमम् ॥ ३ ॥
नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ॥ ४ ॥
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो ॥ ५ ॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥ ६ ॥
जपेद् गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥ ७ ॥
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥ ८ ॥
॥ श्रीनारदपुराणे श्रीसङ्कटनाशनगणेश स्तोत्रम् ॥
To help us:-
[Bharat 🇮🇳]-
Google pay/PhonePe = 7295841147
[From outside Bharat 🌎]
Paypal- www.paypal.me/SRINIVASPandey765
Razorpay- rzp.io/l/TJnsmFR
Telegram Group = t.me/BalramPandeySanskrit
Email- sanskritbalram@gmail.com
#ganesh #sanatandharma #sanskrit #stotram #balrampandeysanskrit
コメント